भगवद् गीता ४
From Wikisource
चतुर्थोऽध्याय: ज्ञानकर्मसंन्यासयोग
ॐ
        श्रीपरमात्मने नमः
        अथ चतुर्थोऽध्यायः
श्रीभगवानुवाच
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
        विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥४-१॥
        
 
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
        स कालेनेह महता योगो नष्टः परन्तप ॥४-२॥
        
 
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
        भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥४-३॥
        
 
अर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वतः ।
        कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४-४॥
        
 
श्रीभगवानुवाच
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
        तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४-५॥
        
 
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
        प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥४-६॥
        
 
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
        अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥
        
 
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
        धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥
        
 
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
        त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥४-९॥
        
 
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
        बहवो ज्ञानतपसा पूता मद्भावमागताः ॥४-१०॥
        
 
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
        मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४-११॥
        
 
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
        क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४-१२॥
        
 
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
        तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥४-१३॥
        
 
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
        इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥४-१४॥
        
 
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
        कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥४-१५॥
        
 
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
        तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥४-१६॥
        
 
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
        अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४-१७॥
        
 
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
        स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४-१८॥
        
 
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।
        ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४-१९॥
        
 
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
        कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥४-२०॥
        
 
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
        शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४-२१॥
        
 
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।
        समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥४-२२॥
        
 
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
        यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४-२३॥
        
 
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
        ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥४-२४॥
        
 
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
        ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४-२५॥
        
 
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
        शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥४-२६॥
        
 
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
        आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४-२७॥
        
 
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
        स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४-२८॥
        
 
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
        प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४-२९॥
        
 
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
        सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥४-३०॥
        
 
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
        नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥४-३१॥
        
 
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
        कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥४-३२॥
        
 
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
        सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४-३३॥
        
 
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
        उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥४-३४॥
        
 
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
        येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥४-३५॥
        
 
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
        सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥४-३६॥
        
 
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
        ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥४-३७॥
        
 
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
        तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥४-३८॥
        
 
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
        ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥४-३९॥
        
 
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
        नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥४-४०॥
        
 
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ।
        आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥४-४१॥
        
 
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
        छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४-४२॥
        
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
        श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४ ॥
 

