bhgvaD giitaa - sNskRUt - Chapter 15 - puRUSHot`tm yog
Bhagavad Gitaa
Posted by Champaklal Dajibhai Mistry. Last updated on April 18, 2005.

भगवद् गीता १५

From Wikisource

 

भगवद् गीता

[

पञ्चदशोऽध्याय: पुरुषोत्तमयोग


श्रीपरमात्मने नमः
अथ पञ्चदशोऽध्यायः

श्रीभगवानुवाच

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१५- १॥

 

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
 

गुणप्रवृद्धा विषयप्रवालाः ।
 

अधश्च मूलान्यनुसंततानि
 

कर्मानुबन्धीनि मनुष्यलोके ॥१५- २॥

 

न रूपमस्येह तथोपलभ्यते
 

नान्तो न चादिर्न च संप्रतिष्ठा ।
 

अश्वत्थमेनं सुविरूढमूल-
 

मसङ्गशस्त्रेण दृढेन छित्त्वा ॥१५- ३॥

 

ततः पदं तत्परिमार्गितव्यं
 

यस्मिन्गता न निवर्तन्ति भूयः ।
 

तमेव चाद्यं पुरुषं प्रपद्ये
 

यतः प्रवृत्तिः प्रसृता पुराणी ॥१५- ४॥

 

निर्मानमोहा जितसङ्गदोषा
 

अध्यात्मनित्या विनिवृत्तकामाः ।
 

द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-
 

र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥१५- ५॥

 

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥१५- ६॥

 

ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५- ७॥

 

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहित्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥१५- ८॥

 

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥१५- ९॥

 

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५- १०॥

 

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥१५- ११॥

 

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१५- १२॥

 

गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१५- १३॥

 

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१५- १४॥

 

सर्वस्य चाहं हृदि संनिविष्टो
 

मत्तः स्मृतिर्ज्ञानमपोहनं च ।
 

वेदैश्च सर्वैरहमेव वेद्यो
 

वेदान्तकृद्वेदविदेव चाहम् ॥१५- १५॥

 

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१५- १६॥

 

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१५- १७॥

 

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५- १८॥

 

यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥१५- १९॥

 

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्‌बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥१५- २०॥

 

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥
 


If you have any questions or comments about this web site, send mail to Bhavin Mistry.    
© 1997-2003 Prajaapati Vishva Aashram Foundation.    
Site Design by Helios Logistics Inc.